Samskrutotsava Celebration .श्री जे.सी.बी.एम्. महाविद्यालये संस्कृतोत्सवः
10 Sept 2026 3 min read
The Department of Sanskrit, Sri Jagadguru Chandrashekhara Bharathi Memorial College (Sri JCBM College), Sringeri, celebrated Samskrutotsava on 10 September with the theme “भारतस्य प्रतिष्ठे द्वे — संस्कृतं संस्कृतिस्तथा” (Sanskrit and Culture are the two pillars of India's heritage). The programme was organized to create awareness among students about the richness of the Sanskrit language, the significance of Indian culture and the importance of preserving India's traditional knowledge heritage.
The programme was inaugurated by Smt. Pushpalakshminarayana, who highlighted the richness of Sanskrit and explained the glory and contemporary relevance of Indian culture. She emphasized that Sanskrit has been an important vehicle of India's intellectual and knowledge traditions and that its study and preservation continue to be significant in the present era.
The chief guest, Sri Krishnamurthy, Sanskrit Lecturer at Sri Abhinava Vidyatirtha High School, delivered an insightful talk on the scientific nature and distinctive features of Sanskrit. He elaborated on the richness of Indian cultural heritage, the importance of Paninian grammar, and the vastness of Sanskrit literature. He encouraged students to explore Sanskrit deeply in order to understand and appreciate India's ancient knowledge traditions.
The programme was presided over by Dr. M. Swamy, Principal, Sri JCBM College, Sringeri. In his presidential address, he spoke about the greatness of Sanskrit and the importance of the valuable texts composed in the language. He encouraged students to study the knowledge contained in Sanskrit literature and use it to broaden their understanding and intellectual horizons.
As part of the Samskrutotsava celebrations, cultural programmes, competitions and talent recognition activities were organized for students. Students participated enthusiastically in the various activities, making the celebration lively and meaningful. The programme successfully encouraged greater interest and appreciation among students towards Sanskrit language and Indian cultural heritage.
Sri A. G. Prashanth, Vice-Principal, and Sri Vidyadhar, Student Welfare Officer, along with the organizers Smt. Srilakshmi and Smt. Sukanya, faculty members and students, participated in the programme. Yashaswini and Sourabha compered the event, while Shashwathi delivered the welcome address and Sanika proposed the vote of thanks.
The Samskrutotsava served as a meaningful academic and cultural initiative, providing students with an opportunity to connect with the richness of Sanskrit and the diverse intellectual and cultural traditions of India.
श्री जे.सी.बी.एम्. महाविद्यालये संस्कृतोत्सवः
“भारतस्य प्रतिष्ठे द्वे — संस्कृतं संस्कृतिस्तथा” इति ध्येयवाक्येन प्रेरितः संस्कृतोत्सवः श्रीजगद्गुरुचन्द्रशेखरभारती स्मारक-महाविद्यालयस्य, शृङ्गेरी, संस्कृतविभागस्य आयोजनेन सेप्टेम्बर्-मासस्य दशमे दिने हर्षोल्लासेन समाचरितः।
कार्यक्रमस्य उद्घाटनं श्रीमती पुष्पलक्ष्मीनारायण-महोदयया कृतम्। सा स्वभाषणे संस्कृतभाषायाः समृद्धिं, भारतीयसंस्कृतेः गौरवं, तस्याः प्राचीनवैभवं च विवृण्वती अद्यतनकालेऽपि संस्कृतभाषायाः अध्ययनस्य संरक्षणस्य च महत्त्वं प्रतिपादितवती। संस्कृतभाषा भारतीयज्ञानपरम्परायाः प्रमुखवाहिनी अस्ति इति सा अवदत्।
कार्यक्रमस्य मुख्यातिथिः श्री अभिनवविद्यातीर्थ उच्चविद्यालयस्य संस्कृतोपाध्यायकः श्री कृष्णमूर्तिमहोदयः आसीत्। सः संस्कृतभाषायाः वैज्ञानिकतां वैशिष्ट्यं च, भारतीयसंस्कृतेः सांस्कृतिकवैभवं, पाणिनीयव्याकरणस्य महत्त्वं तथा संस्कृतसाहित्यस्य समृद्धिं च सरसतया विवृतवान्। संस्कृतस्य गहनाध्ययनेन भारतीयज्ञानपरम्परायाः सम्यक् अवगमनं कर्तुं शक्यते इति सः विद्यार्थिभ्यः प्रेरणां दत्तवान्।
कार्यक्रमस्य अध्यक्षतां महाविद्यालयस्य प्राचार्यः डॉ. एम्. स्वामी-महोदयः अवहत्। स्वकीयाध्यक्षीयभाषणे सः संस्कृतभाषायाः महत्त्वं तथा संस्कृते रचितानां बहुमूल्यानां ग्रन्थानां ज्ञानसम्पदः च विषये प्रकाशं पातितवान्। संस्कृतग्रन्थेषु निहितां ज्ञानसम्पदं पठित्वा विद्यार्थी स्वज्ञानस्य विस्तारं कुर्युः इति सः उपदिष्टवान्।
संस्कृतोत्सवस्य अङ्गत्वेन विद्यार्थिनां कृते सांस्कृतिककार्यक्रमाः, विविधाः प्रतियोगिताः तथा प्रतिभापुरस्कारकार्यक्रमः च आयोजिताः। छात्राः अत्यन्तम् उत्साहेन सर्वेषु कार्यक्रमेषु भागं गृहीतवन्तः। एतेन कार्यक्रमेन विद्यार्थिषु संस्कृतभाषायाः भारतीयसंस्कृतेः च विषये रुचिः, अभिमानः तथा जागरूकता च वर्धिता।
कार्यक्रमे उपप्राचार्यः श्री ए. जी. प्रशान्त-महोदयः, विद्यार्थिक्षेमपालनाधिकारी श्री विद्याधर-महोदयः, आयोजिके श्रीमती श्रीलक्ष्मी तथा श्रीमती सुकन्या, सर्वे अध्यापकाः तथा छात्राः च उपस्थिताः आसन्।
कार्यक्रमस्य सञ्चालनं यशस्विनी तथा सौरभा कृतवन्तौ। शाश्वती स्वागतभाषणं कृतवती तथा सानिका धन्यवादज्ञापनं प्रस्तुतवती।
एवं संस्कृतोत्सवः विद्यार्थिषु संस्कृतभाषायाः भारतीयसंस्कृतेः च विषये अनुरागं, जिज्ञासां तथा गौरवभावनां वर्धयन् एकः सार्थकः शैक्षणिकः सांस्कृतिकश्च कार्यक्रमः अभवत्।

Department of Sanskrith Related on this site Department Department of Sanskrit Read on the College Blog Share Opens srijcbmcollege.blogspot.com in a new tab.